________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा। कारणभावेन जनकास्तस्मात्पूर्वोक्ता सर्वानर्थपरम्परा परमार्थती गाढतरमेतघ्नन्यापि विज्ञेया / किञ्च कुशास्त्रसंस्कारादयः कादाचित्का एते तु रागादयस्तदुत्पादने सकलकालभाविनः / अन्यच्च / कुदर्शनश्रवणादयो भवन्तोऽपि भवेयुर्वानर्थपरंपराकारणं न वेति व्यभिचारिणः / एते तु रागादयो भवन्तोऽवश्यतया महानर्थगर्तपातं कुर्वन्येव नास्त्यत्र व्यभिचारो यतस्तैरभिभूतोऽयं जौवः प्रविशति महातमोऽज्ञानरूपं विधत्ते नानाविधविपर्यामविकल्पान् अनुतिष्ठति कदनुष्ठानशतानि मञ्चिनोति गुरुतरकर्मभारं ततस्तत्परिणत्या क्वचिन्जायते सुरेषु क्वचिदुत्पद्यते मानुषेषु क्वचिदामादयति पशुभावं क्वचित्पतति महानरकेषु / ततश्च / तदेव प्राक्प्रतिपादितखरूपं महादुःखमन्तानमनवरतमरघट्टघटौयन्त्रन्यायेनानन्त शोऽनुभवद्वारेण परावर्त्तयतौति / एवञ्च स्थिते यत्तद्रमकवर्णने प्रत्यपादि यदुत शौतोषणदंशमशकक्षुत्पिपासाद्युपद्रवैर्वाध्यमानो महाघोरनरकोपमवेदन इति / तदत्र जौवरोरे समर्मलतरं मन्तव्यमिति / अत एव च यदुक्तं धदुतासौ द्रमकः / कपास्पदं सतां दृष्टो हास्यस्थानं स मानिनाम् / बालानां क्रौडनावामो दृष्टान्तः पापकर्मणाम् // तदत्रापि जौवे सकलं योजनीयम् / तथाहि / मततमसातमंनिपातग्रस्तोऽयं जौवो दृश्यमानोऽत्यन्तमात्मभूतप्रशमसुखरमानां भगवतां सत्माधूनां भवत्येव कृपास्थानं क्लिश्यमानेषु सकलकालं करुणाभावनाभावितचित्तत्वात्तेषां तथा मानिनामिव वीररसवशेन तपश्चरणकरणोद्यतमतौनां मरागसंयतानां भवत्येवायं जौवो हास्य For Private And Personal Use Only