________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 527 न चामौ बुध्यते किंचिह्नोजनाचिप्तमानसः // जीवस्यापि तथा भने काजीर्णद्भवो ज्वरः / प्रमादात्तेन वर्धत तथैवाज्ञानवायुना // लक्षयन्ति च तं वृद्धं धर्माचार्या महाधियः / समयज्ञमहावैद्या वारयन्ति च देहिनम् // कथम् / अनादिभवकान्तारे भ्रान्त्वा भद्रातिसुन्दरम् / अवाप्य मानुषं जन्म महाराज्यमिवातलम् // कर्माजीर्णज्वराक्रान्तं प्रमादमधुनापि भोः / मा मेवस्वं महामोहमत्रिपातस्य कारणम् // कुरुष्व ज्ञानचारित्रसम्यग्दर्शनलक्षणम् / चित्तज्वरविघाताय जैनौं भद्र प्रतिक्रियाम् // स तु प्रमादभोज्येषु चिप्तचित्तो न बुध्यते। तत्तादृशं गुरोर्वाक्यं पापो जीवः प्रपञ्चितम् // ततश्च। उन्मत्त व मत्त व ग्राहग्रस्त वातरः / गाढसुप्त दवोद्धान्तो विपरीतं विचेष्टते // स एष भद्रे सर्वाऽपि चित्तविक्षेपमण्डपः। महानदीकूलसंस्थो जीवस्यास्थ विजृम्भते // यथा च राजपुत्रेण भोजनं चारुलोचने / अगच्छदपि कण्ठेन गमितं लौल्यदोषतः // तदनन्तरमेवोच्चैर्वान्तं तत्रैव भोजने / जीवस्यापि विजानीहि समानमिदमञ्चसा // For Private And Personal Use Only