SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 527 उपमितिभवप्रपञ्चा कथा / तथाहि। कर्माजीर्णज्वरग्रस्तः सदा विकलमानमः / जराजौर्णतनुचामो रोगार्दितशरीरकः // सर्वेषामक्षमो भोगे भोगानामेष वर्तते / तथापि जायते नास्य स्तोकापि विरतौ मतिः // ततश्च गाढलौल्येन तथाभूतोऽपि सेवते / प्रमादवन्दभोज्यानि वार्यमाणो विवेकिभिः // शतप्राप्तौ सहस्रेच्छा सहस्रे लक्षरोचनम् / लक्षे कोटिगता बुद्धिः कोटौ राज्यस्य वाञ्छनम् // राज्ये देवत्ववाञ्छास्य देवत्वे शक्रतामतिः / शक्रत्वेऽपि गतस्यास्य नेच्छापूर्तिः कथंचन // सुपुत्रैर्वरयोषाभिः सर्वकामैर्मुहुर्मुहुः / नास्थाभिलाषविच्छित्तिः कोटिशोऽपि निषेवितैः / संग्टहाति ततो मृढः सर्वार्थान् सुखकाम्यया / ते तु दुःखाय जायन्ते मज्वरस्येव भोजनम् // जलज्वलनदायादचौरराजादिभिस्तथा / तस्यार्थभोजनस्योच्चैबलादान्तिर्विधाप्यते // इत्कलमलकं घोरं वन्यमानः सहत्ययम् / पाराटौर्मुञ्चति प्राज्याः कृपाहेतुर्विवेकिनाम् // तदेषा चारसर्वाङ्गि चित्तविक्षेपमण्डपे / जीवस्य विलमत्युच्चस्तषणानाम्नौ सुवेदिका // यत्पुनश्चिन्तयत्येवं तदा वेलहलः किल / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy