________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 526 उपमितिभवप्रपञ्चा कथा / तिष्ठामि मततानन्दो नान्यन्मानुष्यके फलम् // सेयमुद्यानिकाकाङ्क्षा विज्ञेया सुन्दरि त्वया / ततो जौवो महारम्भः कुरुते द्रव्यसञ्चयम् // यथेष्टं दैवयोगेन विधत्तेऽन्तःपुरादिकम् / शब्दादिसुखलेशं च किंचिदास्वादयेदपि // अस्य जीवस्य जानीहि तदिदं मृगौक्षणे / कारणं मृष्टभोज्यानां तल्लवानां च भक्षणम् // ततोऽलोकविकल्पैश्च सुखनिर्भरमानमः / विलासलास्यमङ्गौतहास्यविब्बोकतत्परः // युतो दुर्ललितैर्नित्यं द्यूतमधर तिप्रियः / मन्मार्गनगराद् दूरे याति दौःशौल्यकानने // एतन्महाविमर्दन पुरनिर्गमनं मतम् / उद्यानप्रापणं चेदं विद्धि नौलाजलोचने // म मिथ्याभिनिवेशाख्ये स्थितो विस्तीर्ण विष्टरे। कर्माख्यपरिवारेण रचितानि ततोऽग्रतः // मनोहराणि चित्राणि लब्धाखादो विशेषतः / प्रमादवृन्दभोज्यानि सुन्दरत्वेन मन्यते // प्रमत्ततामहानद्याः पुलिनं पद्मलोचने / तत्तदिलमितं विद्धि वृत्तान्तस्यास्य कारणम् // ततो यथावलेशेन भक्षितेन तनुज्वरः / वायुस्पादिभिश्वोच्चैर्वर्धितस्तस्य दारुण: // लचितश्च सुवैद्येन वारितश्च सुभोजनात् / For Private And Personal Use Only