________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 525 विलेपनानि ताम्बूलमलङ्काराः सुभोजनम् / मान्यं वरस्त्रियो वस्त्रं सुन्दरं प्रतिभासते // श्रासनं ललितं यानं शयनं द्रव्यमञ्चयाः / अलौककीर्तिश्च जने रुचितास्य दुरात्मनः // चित्तवृत्तिमहाटव्यां भद्रे मततवाहिनौ / महानदी वहत्युच्चैः सेयमस्य प्रमत्तता / यथा च तदवस्थस्य राजपुत्रस्य सुन्दरि। समुत्पन्ना विलासेच्छा यातमुद्यानिकां मतिः // कारितानि च भोज्यानि लौल्येन प्राशितानि च / निर्गतच विलासेन पुरात्प्राप्तश्च कानने // निविष्टमासनं दिव्यमुपविष्टश्च तत्र सः / विस्तारितं पुरो भकं नानाखाद्यकसंयुतम् // तथास्यापि प्रमत्तस्य जीवस्य वरलोचने / कर्माजीणात्ममुत्पन्ने भोषणेऽपि मनोज्वरे // जायन्ते चित्तकल्लोला नानारूपाः क्षणे क्षणे / यथोपाय॑ धनं भूरि विलसामि यथेच्छया // करोम्यन्तःपुरं दिव्यं भुञ्ज राज्यं मनोहरम् / महाप्रासादमवातं कारये काननानि च // ततश्च / महाविभवसंपन्नः क्षपिताखिलवैरिकः / लाघितः सर्वलोकेन पूरितार्थमनोरथः // शब्दादिसुखसन्दोहसागरे मनमानमः / For Private And Personal Use Only