________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 524 उपमितिभवप्रपश्चा कथा / महानद्या दिवस्तूनां प्रत्येक भेदसिद्धये / / यथाहारप्रियो नित्यं राजपुत्रो निवेदितः / तथायमपि विज्ञेयो जीवो विषयलम्पटः // यथा च तस्य संजातमजीर्ण भूरिभक्षणात् / तथास्यापि कुरङ्गाक्षि कर्माजीणं प्रचक्षते // पापाज्ञानात्मकं तच्च वर्तते कर्म दारुणम् / यतः प्रमत्ततोद्भूता तज्जन्यं तत्पुरदयम् // यथा प्रकुपितास्तस्य दोषा जातस्तनुज्वरः / तथा रागादयोऽस्थापि वर्धन्ते ज्वरहेतवः // यथा तथास्थितस्यापि बुद्धि ज्येषु धावति / नरेन्द्रदारकस्येह तथास्यापि दुरात्मनः // तथाहि / मनुष्यभावमापन्नः कर्माजीणे सुदारुणम् / रागादिकोपनं मूढश्चित्तज्वरविधायकम् // जौवो न लक्षयत्येष ततश्चास्य प्रवर्तते / अहितेषु सदा बुद्धिः प्रकाशं सुखकाम्यया // तथाहि स्वदते मद्यं निद्रात्यन्तं सुखायते / विकथा प्रतिभात्युच्चैरस्थानेकविकल्पना // दृष्टः क्रोधः प्रियो मानो माया चात्यन्तवल्लभा / लोभः प्राणममो मन्ये रागद्वेषौ मनोमतौ // कान्तः स्पर्णा रसोऽभौष्टः कामं गन्धश्च सुन्दरः / अत्यन्तदयितं रूपं रोचते च कलध्वनिः / / For Private And Personal Use Only