________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 523 स एवानन्तरूपत्वाइहिरङ्गजनः स्मृतः मामान्यरूपमुद्दिश्य म चैकः परिकीर्तितः // मनुष्यभावमापत्रः स प्रभुः सर्वकर्मणाम् / महाराजसुतस्तेन स प्रोकोऽनेन सुन्दरि // तस्यैव सका विज्ञेया चित्तवृत्तिर्महाटवौ / सुन्दरेतरवस्तनां मा तस्यैव च कारणम् // केवलं यावदद्यापि स श्रात्मानं न बुध्यते / महामोहादिभिस्तावस्नुष्यते मा महाटवी // यदा तु तेन विज्ञातः स स्थादात्मा कथंचन / तौर्य वौक्ष्य नश्यन्ति महामोहादयस्तदा // यावच्च ते विवर्तन्ते चित्तवृत्तौ महाभटाः / महानद्यादिवस्तूनि तावत्तस्यां भवन्ति वै // तेषामेव यतस्तानि क्रौड़ास्थानानि भूभुजाम् / अतस्तेषु विनष्टेषु तेषां नाशः प्रकीर्तितः // एवं स्थिते / अविज्ञातात्मरूपस्य भने जीवस्य कर्मणा / महामोहनरेन्द्रे च मप्रतापेऽटबौस्थिते // यदा तानि विवर्धन्ते जीवश्च बहु मन्यते / महानद्यादिवस्वनि नितरामात्मवैरिकः // तदा तानि खवौर्यण यत्कुर्वन्ति पृथक् पृथक् / जीवस्य तद्विशेषार्थं दृष्टान्तोऽयं निवेदितः // स चैवं योज्यते भने प्रस्तुतार्थन पण्डितः / For Private And Personal Use Only