________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 522 उपमितिभवप्रपञ्चा कथा / केवलं तदवस्थेन लुठताशुचिकर्दमे / अनन्तकालं तत्रैव स्थातव्यं तेन पापिना // तदेष भद्रे दृष्टान्तः प्रस्तुताना परिस्फुटः / वस्तनां भेदमियर्थ मया तुभ्यं निवेदितः // ततोऽग्टहीतसङ्केता प्राह विकलमानमा / संसारिजौव नैवेदं पौर्वापर्यण युज्यते // यतः / नद्या दिवस्तुभेदार्थ कथितं मे कथानकम् / त्वयेदं तत्र मे भाति कोष्ट्रो नौराजना क च // प्रथास्ति कश्चित्सम्बन्धो हन्त प्रस्तुतवस्तुनि / स्फुटः कथानकस्यास्य स दूदानौं निवेद्यताम् // ततः संसारिजौवेन तद्दान्तिकयोजने। बहुभाषेण खिन्नेन तत्मखौ संप्रचोदिता // कथम् / अस्याः प्रज्ञाविभाले त्वं निःशेषं मत्कथानकम् / घटय प्रस्तुतार्थेन निजगैलिकया स्फुटम् // अथ प्रज्ञाविशालाह कामं भोः कथयामि ते / भनेऽग्टहीतसङ्केते समाकर्णय सांप्रतम् // यस्ते वेल्लहलो नाम राजपुत्रो निदर्शितः / एषोऽनेन विशालाक्षि प्रोक्तो जीवः सकर्मकः // स एव जायते भद्रे नगरे भवनोदरे / अनादिमंस्थितिसुतः स एव परमार्थतः // For Private And Personal Use Only