________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 521 का वास्योपरि ते मूळ यहाह्यं पुगलात्मकम् / अतो देव विहायेदमात्मानं रक्ष यत्नतः // इत्थं च समयज्ञस्य रटतोऽपि वचस्तदा / म राजपुत्रः श्रुत्वापि स्खचित्ते पर्यचिन्तयत् // अहो विमूढः खल्वेष समयज्ञो न बुध्यते / नूनं मदौयप्रकृतिं नावस्थां न हिताहितम् // यो वातलं क्षुधाक्षामं भुञ्जानं मां निषेधति / एतच्च दूषयत्येष भोजनं देवदुर्लभम् // तत्किमेतेन मूर्खण भुजे भोज्यं यथेच्छया। स्वार्थ सिद्धिर्मया कार्या किं ममापरचिन्तया // ततः परिजनेनोच्चैः सहितेऽपि पुनः पुनः / समयज्ञे रटत्येवं भवितं तेन भोजनम् // ततः प्रबलदोषोऽसौ भक्षणानन्तरं तदा / मन्निपातं महाघोरं संप्राप्तो निजकर्मणा // पुनर्वमनबीभत्से ततस्तत्रैव भूतले / पश्यतां पतितस्तेषां काष्ठवन्नष्टचेतनः // म लोलमानस्तत्रैव जघन्ये वान्तिकर्दमे / कुर्वन् घुरघुरारावं लेभापूर्णगलस्तदा // अनाख्येयामचिन्यां च तेषामुद्देगकारिणीम् / अशक्यप्रतिकारां च प्राप्तोऽवस्था सुदारुणाम् // न शक्यः समयज्ञेन बातमेष न बान्धवैः / तदवस्यो न राज्येन न देवैर्नापि दानवैः // For Private And Personal Use Only