________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / नरकेषु। तत्र च पतितः पच्यते कुंभीपाकेन विपाद्यते क्रकचपाटनेन भारोते वज्रकण्टकाकुलामु शाल्मलीषु पाय्यते मन्दंशकैर्मुखं विवृत्त्य कलकलायमानं तप्तं वपु भक्ष्यते निजमांसानि भृज्यतेऽत्यन्तमन्तप्तधानेषु तार्यते पूयवसारुधिरक्लेदमूत्रान्त्रकल्नुषां वैतरणौं विद्यतेऽसिपत्रवनेषु वपापभरप्रेरितः परमाधार्मिकसुरैरिति / तथा समस्तपुद्गलराशिभक्षणाऽपि नोपशाम्यति बुभुक्षा / निःशेषजलधिपानेऽपि नापगच्छति तर्षः। अभिभूयते गौतवेदनया कदर्शाते तापातिरेकेण तथोदीरयन्ति च तदन्यनारका नानाकाराणि दुःखानि / ततश्चायं जीवो गाढतापानुगतो हा मातर्हा नाथास्त्रायध्वं त्रायध्वमिति विक्लवमाक्रोशति न चास्य तत्र गात्रबायकः कश्चिद्विद्यते / ___ कथञ्चिदुत्तीर्णोऽपि नरकाद्विबाध्यते तिर्यक्षु वर्त्तमानः। कथं / वाह्यते भारं कुश्यते लकुटादिभिः विद्यन्तेऽस्य कर्णपुच्छादयः खाद्यते कृमिजालैः महते बुभुक्षां म्रियते पिपामया तुद्यते नानाकारयातनाभिरिति। ___ ततः कथञ्चिदवाप्तमनुय्यभावोऽप्येष जौवः पौद्यत एव दुःखैः / कथं तदुच्यते / क्लेशयन्येनं रोगबाताः जर्जरयन्ति जराविकाराः दोदूयन्ते दुर्जनाः विकलयन्तौष्टवियोगाः परिदेवन्य निष्टसंप्रयोगा: विसंस्थुलयन्ति धनहरणानि श्राकुलयन्ति खजनमरणानि विकलঅনিন নাম্বলানীনি। तथा / कथञ्चिलब्धविबुधजन्माप्येष जौवो ग्रस्यत एव नानाबेदनाभिः / तथा हि। श्राज्ञाप्यते विवशः शक्रादिभिः खिद्यते For Private And Personal Use Only