________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / नगरेऽपरापरजन्यलक्षणेषु उच्चावचेषु गेहेषु विषयकदनाशापाशवशीकतोऽनारतं भ्रमतौति / यत्पुनस्तस्य भिक्षाधारं घटखर्परमाख्यातं तदस्य जीवद्रमकस्यायुष्कं विज्ञेयं यतस्तदेव तदुपभोग्यस्य विषयकदन्नादेश्चारित्रमहाकल्याणकादेवाश्रयो वर्त्तते / यतश्च तदेव ग्टहीत्वा भूयोभूयोऽस्मिन् संसारनगरेऽयं जीवः पर्यटतौति / ये तु तस्य द्रमकस्य दुर्दान्तडिम्भसंघाता यष्टिमुष्टिमहालोष्ट्र प्रहारैः क्षणे क्षणे ताउयन्तः शरीरं जर्जरयन्तीति निदर्शितास्तेऽस्य जीवस्य कुविकल्पास्तत्संपादकाः कुतर्कग्रन्यास्तत्प्रणेतारो वा कुतौर्थिका विज्ञेयाः। ते हि यदा यदाऽमुं जौवं वराकं पश्यन्ति तदा तदा कुहेतुशतमुद्गरघातपातेरस्य तत्वाभिमुखरूपं शरीरं जर्जरयन्ति / ततश्च तर्जर्जरित शरीरोऽयं जीवो न जानौते कार्याकार्यविचारं न लक्षयति भक्ष्याभक्ष्यविशेषं न कलयति पेयापेयस्वरूपं नावबुध्यते हेयोपादेयविभागं नावगच्छति स्वपरयोर्गुणदोषनिमित्तमिति ततोऽमौ कुतर्कानचित्तश्चिन्तयति नास्ति परलोको न विद्यते कुशलाकुशलकर्मणां फलं न संभवति खल्वयमात्मा नोपपद्यते सर्वज्ञः न घटते तदपदिष्टो मोक्षमार्ग इति। ततोऽसावतत्वाभिनिविष्टचित्तो हिनस्ति प्राणिनो भाषतेऽलोकमादत्ते परधनं रमते मैथुने परदारेष वा ग्टह्णाति परिग्रहं न करोति चेच्छापरिमाणं भक्षयति मांसमास्वादयति मद्यं न ग्लाति मदुपदेशं प्रकाशयति कुमार्ग निन्दति वन्दनीयान् वन्दत्यवन्दनीयान् गच्छति स्वपरयोगुणदोषनिमित्तमिति वदति परावर्णवादमाचरति समस्तपातकानौति। ततो बध्नाति निविडं भूरिकर्मजालं पतत्येष जीवो For Private And Personal Use Only