________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। यत्करोति खवीर्येण तदाकर्षय माम्प्रतम् // अनित्येष्वपि नित्यत्वमशुचिष्वपि शुद्धताम् / दुःखात्मकेषु सुखतामनात्मस्वात्मरूपताम् // पुगलस्कन्धरूपेषु शरीरादिषु वस्तुषु / लोकानां दर्शयत्येषा ममकारपरायणा // ततस्ते बद्धचित्तत्वात्तेषु पुगलवस्तुषु / श्रात्मरूपमजानन्तः क्लिश्यन्तेऽनर्थक जनाः // तदेनां धारयन्त्रच्चैर्गाचयष्टिं महाबलः / जराजौर्णाऽपि नैवायं मुच्यते निजतेजमा // अयं हि भद्र राजेन्द्रो जगदुत्पत्तिकारकः / तेनैव गोयते प्राज्ञैर्महामोहपितामहः // ये रुद्रोपेन्द्रनागेन्द्रचन्द्र विद्याधरादयः / तेऽप्यस्य भद्र नेवाज्ञां नवयन्ति कदाचन // तथा हि। योऽयं स्ववीर्यदण्डेन जगचक्र कुलालवत् / विभ्रम्य घटयत्येव कार्यभाण्डानि लौलया // तस्यास्याचिन्यवीर्यस्य महामोहस्य भूपतेः / को नाम भद्र लोकेऽस्मिन्नाज्ञा लवयितुं क्षमः // नदेष गुणतो भद्र वर्णितस्ते नराधिपः / अधुना परिवारोऽस्य वर्ण्यते तं विचिन्तय // केवलं कथयत्येवं मयि भद्र विशेषतः / केनाप्याकूतदोषेण न त्वं पृच्छसि किंचन // 65 For Private And Personal Use Only