________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। हुङ्कारमपि नो दत्से भावितश्च न लक्ष्यसे / शिरःकम्पनखस्फोटविरहेण विभाव्यसे / निश्चलाक्षो मदौयं तु केवलं मुखमोक्षसे / तदिदं नैव जानेऽहं बुध्यसे किं न बुध्यसे // प्रकर्षः प्राह मा मैवं माम वोचः प्रसादतः / ताहं नास्ति तल्लोके यन्त्र बुध्ये परिस्फुटम् / विमर्शः प्राह जानामि बुध्यसे त्वं परिस्फुटम् / अयं तु विहितो भद्र परिहासस्त्वया सह // यतः। विज्ञातपरमार्थ पि बालबोधनकाम्यया। परिहामं करोत्येव प्रसिद्धं पण्डितो जनः // बालो विनोदनीयश्च मादृशां भद्र वर्तसे / अतो मत्परिहासेन न कोपं गन्तुमर्हसि // अन्यच्च जानतापोदमस्माकं हर्षवृद्धये / त्वया प्रश्नोऽपि कर्तव्यः क्वचित्प्रस्तुतवस्तुनि // किंच। अविचार्य मया माधं वस्तुतत्त्वं यथास्थितम् / त्वमत्र श्रुतमात्रेण भद्र न ज्ञातुमर्हसि // ऐदम्पर्यमतस्तात बोद्धव्यं यत्नतस्त्वया / अज्ञातपरमार्थस्य मा भूगौतकथानिका // प्रकर्षः प्राह / मम कथय कौदृशौ पुनः मा भौतकथानिका / विमर्शनाभिहितं / भद्र ममाकर्णय / अस्ति क्वचिनगरे जन्म For Private And Personal Use Only