________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 512 उपमितिभवप्रयचा कथा / यावच्चास्य नरेन्द्रस्य विद्यते वरविष्टरम / इदं तावदहं मन्ये राज्यमेताश्च भूतयः // यतः / अस्मिन्निविष्टो राजायं महासिंहासने सदा / सर्वेषामेव शत्रूणामगम्यः परिकीर्तितः // यदा पुनरयं राजा भवेदस्माद्दहिः स्थितः / सामान्यपुरुषस्यापि तदा गम्यः प्रकीर्तितः // एतद्धि विष्टर भद्र बहिरङ्गजनैः सदा / श्रालोकितं करोत्येव रौद्रानर्थपरंपराम् // यतः / तावत्तेषां प्रवर्तन्ते सर्वाः सुन्दरबुद्धयः / यावत्तैर्विष्टरे लोकैरत्र दृष्टिर्न पातिता // निबद्धदृष्टयः सन्तः पुनरत्र महामने / ते पापिनो भवन्युचैः कुतः सुन्दरबुद्धयः // किं च / यन्नद्यास्तत् पुलिनस्य मण्डपस्य च वर्णितम् / वेदिकायाश्च तदीय सर्वमत्र प्रतिष्ठितम् // तदिदं गुणतो भद्र कथितं तव विष्टरम् / महामोहनरेन्द्रस्य निबोध गुणगौरवम् // जराजौर्णकपोलापि यैषा भुवनविश्रुता / अमुव्येयमविद्याख्या गात्रयष्टिरुदाहता // एषात्र संस्थिता भद्र मकलेऽपि जगत्त्रये / For Private And Personal Use Only