________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / एषा प्रसिद्धा लोकेऽत्र हृष्णानाम्नौ सुवेदिका / अस्यैव च नरेन्द्रस्य कारणेन निरूपिता // भद्रात एव त्वं पश्य महामोहेन यो निजः / कुटुम्बान्तर्गतो लोकः स एवास्यां निवेशितः // ये तु शेषा महीपालास्तत्सेवामात्रवृत्तयः / एते निविष्टास्ते पश्य सर्वे मुत्कलमण्डपे // एषा हि वेदिका भद्र प्रकृत्यैवास्थ वल्लभा // महामोहनरेन्द्रस्य खजनस्य विशेषतः // अस्यां समुपविष्टोऽयमत एव मुहुर्मुहुः / सग वौक्षते लोकं सिद्धार्थोऽहं किलाधुना // एतच्च प्रौणयत्येषा स्वभावेनैव वेदिका / खस्योपरिष्टादासीनं महामोहकुटुम्बकम् // बहिरङ्गाः पुनर्लोका यद्येनां भट्ट वेदिकाम् / आरोहन्ति ततस्तेषां कौतत्यं दीर्घजीवितम् // अन्यच्चैषा स्ववौर्यण हृष्णाख्या भद्र वेदिका / अत्रैव मंस्थिता नित्यं भ्रामयत्यखिलं जगत् // तदेषा गुणतो भद्र यथार्था वरवेदिका / मया निवेदिता तुभ्यमिदानौं श्टणु विष्टरम् // एतसिंहासनं भद्र विपर्यासाख्यमुच्यते / अस्यैव विधिना नूनं महामोहस्य कल्पितम् // यदिदं लोकविख्यातं राज्यं याश्च विभूतयः / तबाहं कारणं मन्ये नृपतेरस्य विष्टरम् // For Private And Personal Use Only