________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 510 उपमितिभवप्रपञ्चा कथा / अत्र प्रविष्टमात्राणां विस्मरन्ति निजा गुणाः / प्रवर्तन्ते महापापसाधनेषु च बुद्धयः // एतेषामेव कार्यण निर्मितोऽयं सुवेधसा / राजानो येऽत्र दृश्यन्ते महामोहादथः किल / बहिरङ्गाः पुनर्लीका यदि मोहवशानुगाः / स्युर्महामण्डपे भद्र प्रविष्टाः क्वचिदत्र ते // ततो विभ्रमसन्तापचित्तोन्मादब्रतप्तवान् / प्राप्नुवन्ति न सन्देहो महामण्डपदोषतः // एनं भद्र प्रकृत्यैव महामण्डपमुच्चकैः / एते नरेन्द्राः संप्राप्य मोदन्ते तुष्टमानसाः // बहिरङ्गाः पुनीका मोहादामाद्य मण्डपम् / एनं हि दौर्मनस्येन लभन्ते दुःखसागरम // अयं हि चित्तनिर्वाणकारिणौँ निजवौर्यतः / तेषामेकाग्रतां हन्ति सुखसन्दोहदायिनीम् // केवलं ते न जानन्ति वीर्यमस्य तपस्विनः / प्रवेशमाचरन्यत्र तेन मोहात्पुनः पुनः // यैस्तु वौर्य पुनर्जातं कथंचित् पुण्यकर्मभिः / अस्य नैवात्र ते भद्र प्रवेशं कुर्वते नराः // एकाग्रमनमो नित्यं चित्तनिर्वाणयोगतः / ततस्ते सततानन्दा भवन्यत्रैव जन्मनि // तदेष गुणतो भद्र चित विक्षेपमण्डपः / मया निवेदितस्तुभ्यमधुना श्टणु वेदिकाम् // For Private And Personal Use Only