________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 506 यदृष्टं भवता पूर्व रागकेसरिपत्तनम् / यच्च द्वेषगजेन्द्रस्य सम्बन्धि नगरं परम् // ताभ्यामेषा समुद्भूता विगाहमा महाटवीम् / गत्वा पुनः पतत्येषा घोरसंसारनौरधौ // अतोऽस्यां पतितो भद्र पुरुषस्तत्र सागरे / अवश्यं याति वेगेन तस्य चोत्तरणं कुतः // ये गन्तुकामास्तत्रैव भौमे संसारसागरे / अत एव सदा तेषां वल्लभेयं महापगा // ये तु भौताः पुनस्तस्माद्धोरात्संसारसागरात् / ते दूरादरतो यान्ति विहायेमां महानदीम् // तदेषा गुणतो भद्र वर्णिता तव निम्नगा / त्वं तदिलमितं नाम माम्प्रतं पुलिनं श्टण // एतद्धि पुलिनं भद्र हास्थविब्बोकसैकतम् / विलासलाससङ्गीतहंससारमराजितम् // नेहपाशमहाकाकासधवलं तथा / घूर्णमानमहानिद्रामदिरामत्तदुर्जनम् // केलिस्थानं सुविस्तीर्णं बालिशानां मनोरमम् / विज्ञाततत्वैर्दूरेण वर्जितं शौलशालिभिः // तदिदं पुलिनं भद्र कथितं तव माम्प्रतम् / महामण्डपरूपं ते कथयामि सनायकम् // अयं हि चित्तविक्षेपो नाम्ना संगीयते बुधैः / गुणतः सर्वदोषौघवासस्थानमुदाहृतः // For Private And Personal Use Only