________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / नैवान्तरङ्गलोकानां चित्तवृत्तिमहाटवीम् / विहाय विद्यते स्थानं बहिरङ्गपुरे क्वचित् // ततश्च / सुन्दरासुन्दराः सर्वे येऽन्तरङ्गाः क्वचिजनाः / एनां विहाय ते भद्र न वर्तन्ते कदाचन // अन्यच्च / मिथ्यानिषेविता भद्र भवत्येषा महाटवौ / घोरसंसारकान्तारकारणं पापकर्मणम् // सम्यनिषेविता भद्र भवत्येषा महाटवौ / अनन्तानन्दसन्दोहपूर्ण मोक्षस्य कारणम् // किं चेह बडनोक्तेन सुन्दरेतरवस्तुनः / सर्वस्य कारणं भद्र चित्तवृत्तिमहाटवौ // यं चासारविस्तारा दृश्यते या महानदौ / एषा प्रमत्तता नाम भट्र गीता मनीषिभिः // इयं निद्रातटिस्तुङ्गा कषायजलवाहिनी / विज्ञेया मदिरावादविकथास्रोतसां निधिः // महाविषयकल्लोललोलमालाकुला सदा / विकल्पानल्पसत्त्वौघपूरिता च निगद्यते // योऽस्यास्तटेऽपि वर्तेत नरो बुद्धिविहीनकः / तमुन्मूल्य महावः क्षिपत्येषा महापगा // यस्तु प्रवाहे नौरस्य प्रविष्टोऽस्याः पुमानलम् / स यज्जीवति मूढात्मा क्षणमात्रं तदमृतम् // For Private And Personal Use Only