SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / समन्तादवलोकिता महाटवी निरीक्षिता महानदौ विलोकितं पुलिनं निर्वर्णितो महामण्डपः निरूपिता वेदिका निभालितं महासिंहासनं विचिन्तितो महामोहराजा विचारिता: प्रत्येक महताभिनिवेशेन सपरिकराः सर्वे नरेन्द्राः। हृदयेन प्रविष्टो ध्यानं / तत्र च व्युपरताशेषेन्द्रियग्रामवृत्तिनिष्यन्दस्तिमितलोचनयुगस्तः स्थितः किंचित्कालं / ततः प्रकम्पयता शिरः प्रहमितमनेन / प्रकर्षः प्राह / माम किमेतत् / विमर्शनोक्तं / अवगतं समस्तमिदमधुना मया / ततः समुद्भूतो हर्षः / प्रच्छनीयमन्यदपि साम्प्रतं यत्ते रोचते / प्रकर्षणोक्तं / एवं करिष्यामि / तावदिदमेव प्रस्तुतं निवेदयतु मामः / विमर्गनाभिहितं / यद्येवं ततस्तावदेषा चित्तवृत्तिर्नाम महाटवी। इयं च भद्र विस्तीर्णविविधाडतसंगता / उत्पत्तिभूमिः सर्वेषां भद्रत्नानामुदाहता // दयमेव च सर्वेषां लोकोपद्रवकारिणम् / महानर्थपिशाचानां कारणं परिकीर्तिता // सर्वेषामन्तरङ्गाणां लोकानामत्र संस्थिताः / चित्तवृत्तिमहाटव्यां ग्रामपत्तनभूमयः // यदापि बहिरङ्गेषु निर्दिश्यन्ते पुरेषु ते / किंचित्कारणमालोच्य विद्वद्भिर्ज्ञानचक्षुषा // तथापि परमार्थन तेऽन्तरङ्गजनाः सदा / अस्यामेव महाटव्यां विज्ञेयाः सुप्रतिष्ठिताः // यतः / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy