________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / अथ तत्र महामोहं रागकेसरिसंयुतम् / युक्त द्वेषगजेन्द्रेण चतुरङ्गबलान्वितम् // आवासितं महानद्याः पुलिनेऽतिमनोरमे / महामण्डपमध्यस्थं वेदिकायां प्रतिष्ठितम् // महासिंहामनारूढं भटकोटिविवेष्टितम् / गत्वा स्म नातिदूरं तौ दत्तास्थानं प्रपश्यतः // ततो विमर्गनाभिहितं / भद्र प्राप्तौ तावदावामभीष्टप्रदेशे / लजिता महाटवौ / दृष्टं महामोहसाधनं / दर्शनपथमवतीर्णोऽयं दत्तास्थानः सह रागकेसरिण सपरिकरो महामोहराजः / तन्त्र युक्तोऽधुनावयोरस्मिन्नास्थाने प्रवेशः / मा भूदेतेषामास्थानस्थायिनां लोकानामपूर्वयोरावयोर्दर्शनेन काचिदागका / अन्यच्चात्रैव प्रदेश व्य स्थिताभ्यां दृश्यत एवेदं सकलमास्थानं / अतः कुबहलेनापि न युक्तोऽत्र प्रवेशः / प्रकर्षणोक्तं / एवं भवतु / केवलं मामेयं महाटवी दयं च महानदी इदं च पुलिनं अयं च महामण्डपः एषा च वेदिका एतच्च महासिंहासनं श्रयं च महामोहनरेन्द्रः एते च सपरिवारा: समस्ता अपि शेषनरेन्द्राः सर्वमिदमदृष्टपूर्व अतो महदत्र कुहलं / तेनामौषामेकैकं नामतो गुणातश्च मामेन वर्षमानं विस्तरतः श्रोतुमिच्छामि। अभिहितं च पूर्व मामेन / यथा जानाम्यहं दृष्टस्य वस्तुनो यथावस्थितं तत्त्वं अतः समस्त निवेदयितमर्हति मामः / विमर्श: प्राह / सत्यमभिहितमिदं मया / केवलं भूरिप्रकारं परिप्रनितमिदं भद्रेण / ततः सम्यगवधार्य निवेदयामि / प्रकर्षः प्राह / विश्रब्धमवधारयतु मामः / ततो विमर्शन For Private And Personal Use Only