________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 504 उपमितिभवप्रपञ्चा कथा / पुरं प्रत्यागमनप्रयोजनमेतत् सर्वमुत्तरत्र कथयिष्याम इति तदिदमधुना तेन संसारिजीवेन समस्तं निवेदितमिति / अग्टहीतसङ्केतयाभिहितं / साधु प्रियसखि साधु सुन्दरं मम स्मारितं भवत्या। ततः प्रज्ञाविशालया संसारिजौवं प्रत्यभिहितं। भद्र यदा विचक्षणाचार्यण नरवाहननरेन्द्राय विमर्शप्रकर्षवक्तव्यतां कथयता तव रिपुदारणस्य मतस्तस्यामेव परिषदि निषलस्य समाकर्णयतो निवेदितमेवमविवेकितापूर्वचरितं तदा किं विज्ञातमासोद्भवता यदुत यासौ वैश्वानरस्य माताभुनन्दिवर्धनकाले मम च धात्री मैवेयमविवेकिता साम्प्रतं शैलराजस्य जननी वर्तते मम च पुन(चौति किं वा न विज्ञातमिति / संसारिजौवेनो / भने न किंचित्तदा मया विज्ञातं / अज्ञानजनित एव मे समस्तोऽपि निवेदयिष्यमाणोऽनर्थपरम्पराप्रबन्धः / केवलं तदाहं चिन्तयामि यथा कथानिकां कांचिदेष प्रव्रजितकस्ताताय कथयति / न पुनस्तद्भावार्थमहं वक्ष्यामि स्म यथेयं साम्प्रतमगृहीतसङ्केता न लक्षयति / अगृहीतसङ्केतयाभिहितं / भद्र किमन्यः कश्चिद्भावार्थी भवति। संसारिजौवः प्राह / बाढं भने नास्ति प्रायेण मदीयचरिते भावार्थरहितमेकमपि वचनं / ततो न भवत्या कथानकमात्रेण सन्तोषो विधातव्यः किं तर्हि भावार्थोऽपि बोद्धव्यः / म च परिस्फुट एव भावार्थः / तथाप्याटहौतसङ्केते यत्र क्वचित्र बुध्यते भवतो तत्र प्रज्ञाविशाला प्रष्टव्या / यतो बुध्यते सभावार्थमेषा मदीयवचनं। अटहीतसङ्केतयो / एवं करिष्यामि / प्रस्ततमभिधीयतां // For Private And Personal Use Only