________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समितिभवप्रपञ्चा कथा / ततः कुबहलेनेदं पृष्टं संदिग्धचेतसा // तद्भद्र माम्प्रतं ब्रूहि किमत्रास्ते नराधिपः / किं वा विनिर्गतः क्वापि पश्यावस्तं नरेश्वरम् // शोकेनोनं जगत्यत्र वृत्तान्तोऽयमपि स्फुटम् / प्रसिद्ध एव सर्वेषां विदुषां दत्तचेतमाम् // यथा देवो महामोहस्तत्पुत्रो रागकेसरी / तथा देवगजेन्द्रश्च समस्तबलसंयुताः // सन्तोषहतकस्योचैर्वधाय कृतनिश्चयाः / विनिर्गताः स्वकस्थानाद्भूरिकालश्च लडिन्तः // विमर्शः प्राह यद्येवं ततो भद्रः किमर्थकम् / इहागतः किमास्तेऽत्र पुरे भोः माविवेकिता // शोकेनाभिहितम् / नास्त्यत्र नगरे तावदधुना माविवेकिता / नापि देवसमीपे मा तत्राकर्णय कारणम् // यदा तातो महामोहस्तथान्यो रागकेसरी / सन्तोषहतकस्योचैर्वधार्थं कृतनिश्चयः / / तदा प्रचलिते देवे ताभ्यां सह तोद्यमे / देवेन साधं मा देवी प्रस्थिता भवत्मला // ततो देषगजेन्द्रेण मा प्रोक्ता कमलेक्षणा। स्कन्धावारक्षम देवि न त्वदीयं शरीरकम् / दौर्घा कटकसेवेयं त्वं च गर्भभरालसा / नातः संवाहनायोग्या बेला मासस्य वर्तते // For Private And Personal Use Only