________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 5.1 वर्गपातालमत्त्येषु शत्रुभिर्भीतकम्पितैः / नामापि ग्राह्यते तस्य प्रतापहतवैरिणः // देवस्थाचिन्त्यवीर्यस्य सत्पराक्रमशालिनः / तस्य देवगजेन्द्रस्य नाम कः प्रष्टुमर्हति // किं च पास्तां तावद्देवः / किं तर्हि / या मोहयति वौर्यण सकलं भुवनत्रयम् / ख्याताविवेकिताप्यत्र मा देवी देववल्लभा / अन्यच्च / मा महामोहनिर्देशकारिणौ गुरुवमला। मा महामूढ़ताज्ञायां वर्तते सुन्दरा वधूः // रागकेसरिनिर्देशं न लजन्यति मा सदा / मूढ़तायाश्च तत्पन्याः सौहार्द दर्शयत्यलम् // .... तथा देषगजेन्द्रस्य मा भर्तुर्गाढवत्सला / तेनाविवेकिता लोके प्रख्याति समुपागता // तदेतौ भुवनेऽप्यत्र ख्याती देवीनरेश्वरौ / इदानौं हन्त भद्राभ्यां कथं प्रष्टव्यतां गतौ // विमर्शः प्राह नैवात्र कोपः कार्यस्त्वया यतः / सर्वः सर्वं न जानौते मिद्धमेतज्जगत्त्रये // भावां दवीयमो देशादागतौ न च वौषितम्। पूर्वमेतत्पुरं किं तु श्रुतौ देवीनरेश्वरौ // . ततश्च / किं स्याद्वेषगजेन्द्रोऽत्र किं वा स्थानगरान्तरे। .. For Private And Personal Use Only