________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 500 उपमितिभवायचा कथा / मानुषाणं मध्ये रमना। तदधुना तमेव विषयाभिलाषं दृष्ट्वा तस्याः खरूपमावयोर्गुणतो निश्चेत युक्तं / तगच्छावस्तत्रैव तामसचित्तनगरे। प्रकर्षः प्राह। यन्मामो जानौते। ततो गतौ तामसचित्तपुरे विमर्शप्रकर्षों। तच्च कीदृशम् / नाशिताशेषसन्मार्गमामूलतस्तेन दुर्ग न लंध्यं परेषां सदा। सर्वदोद्योतमुक्तं च तदर्तते चौरवृन्दं तु तत्रैव मंवर्धते // वल्लभं तत्मदा पापपूर्णात्मनां निन्दितं तत्मदा शिष्टलोकः पुरम। कारणं तत्सदानन्तदुःखोदधेर्वारणं तत्मदाशेषसौख्योन्नतेः // केवलं तदपि ताभ्यां विमर्शप्रकर्षाभ्यामौदृशमवलोकितं। यदुत। दवदग्धमिवारण्यं कृष्णवर्णं समन्ततः / रहितं भूरिलोकेन न मुक्तं च निजश्रिया // ततः प्रकर्षस्तदृष्ट्वा प्रत्याह निजमातुलम् / माम किं विद्यते कश्चिदत्रापि पुरनायकः // विमर्शः प्राह नैवास्ति योऽत्र भो मूलनायकः / केवलं नायकाकारः कश्चिदत्रास्ति मानवः // ततो यावदेतावान् विमर्शप्रकर्षयोजल्पः संपद्यते तावदृष्टस्ताभ्यां तचैव नगरे प्रवेटुकामो दैन्याक्रन्दनविलपनादिभिः कतिचित्प्रधानपुरुषैः परिकरितः भोको नाम पाडौरिकः / ततः संभाषितोऽसौ विमर्शप्रकर्षाभ्यां पृष्टश्च / भद्र कोऽत्र नगरे राजा / शोकः प्राह / ननु भुवनप्रमिद्धोऽयं नरेन्द्रः। तथाहि / / महामोहसमुद्भूतो रागकेसरिसोदरः / .. धवोऽविवेकितायाश्च प्रसिद्धोऽयं नराधिपः // , For Private And Personal Use Only