________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / भवन्ति। ततो भविष्यति मे तद्दर्शनानिश्चयः / ततोऽभिहितमनेन / भद्र यद्येवं ततो भवतां किंनिमित्तमिहावस्थानं / मिथ्याभिमानेनोक्तं / प्रस्थितोऽहमप्यासं तदा। केवलमग्रानौकानिवर्तितो देवेन अभिहितश्च / यथार्य मिथ्याभिमान न चलितव्यमितो नगरानवता / दं हि नगरं त्वयि स्थिते निर्गतेवण्यस्माखविनष्टीकं निरुपद्रवमास्ते / वयमप्यत्र स्थिता एव परमार्थतो भवामः। यतस्वमेवास्य नगरस्य प्रतिजागरणक्षमः / मयाभिहितं। यदाज्ञापयति देवः / ततः स्थितोऽहं। तदिदमस्माकमवावस्थानकारणं / विमर्गनोकं / अयि प्रत्यागता काचिद्देवसकाशात्कुशलवार्ता / मिथ्याभिमानः प्राह / बाढमागता। जितप्रायं वर्तते देवकीयसाधनेन / केवलममावपि वष्टः सन्तोषहतको न शक्यते सर्वथाभिभवितुं ददात्यन्तरान्तरा प्रत्यवस्कन्दान् निर्वाहयत्यचापि कंचिच्चनं / प्रत एव देवेऽपि रागकेसरिणि लग्ने स्वयमेतावान् कालविलम्बो वर्तते / विमर्शनोक / क पुनरधुना भवदीयदेवः श्रूयते / ततः समुत्पन्ना मिथ्याभिमानस्य प्रणिधिका / न कथितं यथावस्थितं / अभिहितं चानेन / न जानीमः परिस्फुटं। केवलं ताममचित्तं नगरमुररीहत्य तावदितो निर्गतो देवः / ततः कदाचित्तत्रैवावतिष्ठते। विमोशनोकं / पूरितं भनेणावयोः कुकूहलं / निवेदितः प्रस्तुतवृत्तान्तः / दर्शितं सौजन्यं / तगच्छावः साम्प्रतमावां। मिथ्याभिमानेनोक्त। एवं सिद्धिर्भवत् / तदाकर्ण्य दृष्टो विमर्शः / ततः परस्परं विहितं मनागुत्तमाङ्गनमनं / निर्गतौ राजमचित्तनगराद्विमप्रिकर्षा / विमर्शनोक्तं / भद्र कथिता नावदनेन तेषां विषयाभिलाष For Private And Personal Use Only