________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४हज उपमितिभव प्रपच्चा कथा / मचित्तनगरस्थ मौकत्वं / प्रकर्षणोक्तं / यद्येवं ततस्तावेदनमुपसृत्य जल्पयावः / पृच्छावश्च कोऽत्र वृत्तान्त इति। विमर्शनोक / एवं भवत्। ततः संभाषितस्ताभ्यां मिथ्याभिमानः पृष्टश्च। भद्र केन पुनर्व्यतिकरण विरलजनमिदं दृश्यते नगरं। मिथ्याभिमानः प्राह / ननु सुप्रसिद्धैवेयं वार्ता कथं न विदिता भद्राभ्यां / विमर्शनोकं / न कर्तव्योऽत्र भद्रण कोपः / श्रावां हि पथिको न जानौवों महच्चात्रार्थ कुतूहलमतो निवेदयितुमईति भद्रः / मिथ्याभिमानेनोक्र / अस्ति तावत्ममस्तभुवनप्रतीतोऽस्य नगरस्य स्वामी सुग्रहीतनामधेयो देवो रागकेसरौ। तज्जनकश्च महामोहः / तथा तयोमन्त्रिमहत्तमाश्च भृयांसो विषयाभिलाषादयः / तेषामितो नगरात् मर्वचस्लममुदयेन दण्डयात्रया निर्गतानामनन्तकालो वर्तते / तेनेदं विरलजनमुपलभ्यते नगरं / विमर्शः प्राह / भद्र केन सह पुनस्तेषां विग्रहः / मियाभिमानः प्राह / दुरात्मना सन्तोषहतकेन। विमर्शनोकं / किं पुनस्तेन माधैं विग्रहनिमित्तं / मिथ्याभिमानेनोक / क्वचिद्देवादेशेनैव जगदशौकरणार्थ विषयाभिलाषेण प्रहितानि पूर्व स्पनरसनादौनि पञ्चात्मीयानि ग्रहमानुषाणि / ततस्तैर्वशौकतप्राये त्रिभुवने सन्तोषहतकेन तान्यभिभूय निर्वाहिताः कियन्तो ऽपि लोकाः प्रापिता निर्वृतौ नगयों / तच्छ्रुत्वा सन्तोषहतकस्योपरि प्रादुर्भूतक्रोधानुबन्धो निर्गतः स्वयमेव देवो रागकेसरी विक्षेपेण / तदिदमत्र विग्रहनिमित्तं / विमन चिन्तितं / श्रये उपलब्धं तावद्रमनाया नामतो मूलोत्थानं / गुणतः पुनर्विषयाभिसाषं दृष्ट्वा ज्ञास्यामि / यतो जनकानुरूपाणि प्रायेणापत्यानि For Private And Personal Use Only