________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / / थदा यतापि कालेन नोपलब्धा विमर्गप्रकर्षाभ्यां रमनामूलशद्धिस्तदा प्रविष्टौ तावन्तरङ्गदेशेषु / तत्रापि पर्यटितौ नानाविधस्थानेषु / अन्यदा प्राप्तौ राजमचित्तनगरे / तच्च दीर्घमिवारण्यं भूरिलोकविवर्जितम् / क्वचिदृष्टग्टहारक्षं ताभ्यां ममवलोकितम् // ततः प्रकर्षण भिहितं / माम किमितीदं नगरं विरलजनतया शून्यमिव दृश्यते / किं वा कारणमाश्रित्येदमौदृशं संपन्न / विमर्श: प्राह / यथेदं दृश्यते सर्व समृद्धं निजसम्पदा / केवलं लोकमन्दोहरहितं सुस्थितालयम् // तयेदं भाव्यते नूनं नगरं निरुपद्रवम् / प्रयोजनेन केनापि क्वचिनिष्क्रान्तराजकम् // प्रकर्षः प्राह / एवमेतत्सम्यगवधारितं मामेन / विमर्शः प्राह / भद्र कियदिदं। जानाम्यहं सर्वस्यैव वस्तुनो दृष्टस्य यत्तत्त्वं। प्रष्टव्यमन्यदपि यत्र ते क्वचित्मन्देहः संभवति / प्रकर्षणाभिहितं। माम यद्येवं ततः किमितौदं नगरं रहितमपि नायकेन विवर्जितमपि भूरिलोकैर्निजश्रियं न परित्यजति। विमर्शनोक्त / अस्यस्य मध्ये कचिन्महाप्रभावः पुरुषः / तजनितमस्य मौकत्वं / प्रकर्षः माह / यद्येवं ततः प्रविश्य निरूपयावस्तं पुरुषं / विमर्शनोक / एवं भवत् / ततः प्रविष्टौ तौ नगरे प्राप्तौ राजकुले / दृष्टस्तत्राहकारादिकतिचित्पुरुषपरिकरो मिथ्याभिमानो नाम महत्तमः / ततो विमर्शः प्रार। भद्र मोऽयं पुरुषो यत्प्रभावजन्यमस्य राज 63 For Private And Personal Use Only