________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 888 उपमितिभवप्रपञ्चा कथा / तथापि चानयोर्दृष्ट्वा गुणसम्भारगौरवम् / अवर्णितेन तेनाहं पुत्र शक्नोमि नामितम् // इयं हि भार्या ते बुद्धिरनुरूपा वरानना / गुणवृद्धिकरौ धन्या यथा चन्द्रस्य चन्द्रिका // भर्खस्नेहपरा पट्वी सर्वकार्यविशारदा / बलसम्पादिका गेहभरनिर्वहणक्षमा // विशालदृष्टिरप्येषा सूक्ष्मदृष्टिरुदाहता / सर्वसुन्दरदेहापि द्वेष हेतुर्जडात्मनाम् // अथवा / मलक्षयेण जनिता पुरे निर्मलमानसे / या च सुन्दरतापुत्रौ तस्याः को वर्णनक्षमः // श्रत एव प्रकर्षोऽपि नेदानौं बहु वर्ण्यते / अनन्तगुण एवायं जनयिया विभाव्यते // वत्म किं बहुनोतन धन्यस्त्वं सर्वथा जने / यस्येदृशं महाभागं संपन्नं ते कुटुम्बकम् // अत एव वयं चित्ते माशङ्काः साम्प्रतं स्थिताः आकर्ण्य रसनालाभं नोचितेयं यतस्तव // मा भूटुद्धेविघाताय सपत्नी मत्सरादियम् / विशेषतः प्रकर्षस्य तेन चिन्तातुरा वयम् // किं वा कालविलम्बेन प्रस्तुतं प्रविधीयताम् / ततो यथोचितं ज्ञात्वा युक्तं यत्तत्करिष्यते // मातुलस्नेहबद्धात्मा प्रकर्षः प्रस्थितो यदि / For Private And Personal Use Only