________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 865 इदं चारुतरं जातं चौरे खण्डस्य योजनम् // तदेतौ महितावेव गच्छता कार्यसिद्धये / युवाभ्यां न तु कर्तव्या चिन्तेति प्रतिभाति मे // ततो विचक्षणेन बुद्ध्या चाभिहितं / यदाज्ञापयति तातः / ततो निपतितौ गुरूणां चरणेषु विमर्शप्रकर्षो / कृतमुचितकरणौयं / प्रवृत्तौ गनुं // इतश्च तदा शरत्कालो वर्तते / स च कीदृशः / प्रास्यमम्भारनिष्यन्नभूमण्डलो मण्डलाबद्धगोपालरामाकुलः / माकुलत्वप्रजाजातसारक्षणो रक्षणोद्युक्तमच्छालिगोपप्रियः // यत्र च शरत्काले / जलवर्जितनौरदवृन्दचितं स्फुटकाशविराजितभूमितलम् / भवनोदरमिन्दुकरैर्विशदं कलितं स्फटिकोपलकुम्भसमम् // अन्यच्च / शिखिविरावविरागपरा श्रृतिः श्रयति हंसकुलस्य कलखनम् / न रमते च कदम्बवने तदा विषमपर्णरता जनदृष्टिका // लवणतितरमाच्च पराङ्मुखा मधुरखाद्यपरा जनजिव्हिका / स्फुटमिदं तदहो प्रियताकरो जगति शुद्धगुणो न तु संस्तवः / / तथा / खच्छन्नौरपूरं सरोमण्डलं फुल्लसत्पद्मनेत्रैर्दिवा वीक्षते / यन्नभस्तत्पुनर्लोकयात्रेच्छया राबिनक्षत्रसल्लोचनैरौक्षते // नन्दितं गोकुलं मोदिताः पामराः पुष्पितो नौपवृक्षो निशा निर्मला / चक्रवाकस्तथापौह विद्राणको भाजनं यस्य यत्तेन तल्लभ्यते // ततश्चैवंविधे शरत्ममये पश्यन्तौ मनोरमकाननानि विलोकयन्तौ For Private And Personal Use Only