________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। विविधपण्यायन्ते नानाकारसुखदुःखानि / तदनुरूपमूल्यायन्ते बहविधपुण्यापुण्यानि / विचित्रचित्रोज्ज्वलदेवकुलायन्ते सुगतकणभक्षाक्षपादकपिलादिप्रणौतकुमतानि / पौर्वापर्यपर्यालोचनविकलमुग्धजनचित्ताक्षेपकारितया महर्षप्रबलकलकलोपेतदुद्दन्तिबालकजापायन्ते। क्रोधादयः कषायाः सकलविवेकिमहालोकचित्तोद्वेगहेतुतया तुङ्गप्राकारायन्ते / महामोहलंध्यतया वेष्टकतया च महापरिखायते रागद्देषात्मिका हृष्णा / विषयजलदुष्यूरतथाऽतिगमौरतया च विस्तीर्णमहासरायन्ते शहादयो विषयाः। प्रबलजलकल्लोलाकुलतया विपर्यस्तजनशकुनाधारतया च गम्भौरान्धकूपायन्ते प्रियविप्रयोगानिष्टसंयोगस्वजनमरणधनहरणादयो भावाः। बामहेतुतया अदृष्टमूलतया च विशालारामकाननायन्ते जन्तदेहाः। हृषीकमनश्चञ्चरौकनिलयनकारणतया स्वकर्मविविधविटपिकुसुमफलभरपूरिततया चेति / / . ___ यस्तु तत्र नगरे निष्पुण्यको नाम द्रमकः कथितः मोऽत्र संसारनगरे सर्वज्ञशासनप्राप्तेः पूर्वं पुण्यरहिततया यथार्थाभिधानों मदीयजीवो द्रष्टव्यः / यथामौ द्रमको महोदरः तथायमपि जीवो विषयकदशनदुध्यरत्वान्महोदरः / यथाऽसौ द्रमकः प्रलौनबन्धुवर्गस्तथायमपि जीवोऽनादौ भवभ्रमणे केवलो जायते केवलो म्रियते केवलश्च स्वकर्मपरिणतिढौकितं सुखदुःखमनुभवति / इत्यतो नास्य परमार्थतः कश्चिद्वन्धुरस्ति / यथाऽसौ रोरो दुष्टबुद्धिस्तथायमपि जीवोऽतिविपर्यस्तो यतोऽनन्तदुःखहेतून् विषयानासाद्य परितव्यति परमार्थशवन् कषायान् बन्धूनिव सेवते / परमार्थतोऽन्धत्वमपि For Private And Personal Use Only