________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। मबुद्धिः शोभना बुद्धिः सन्मार्ग या प्रवर्त्तिका / काष्ठपात्री त्रयाकारा वक्ष्यमाणा कथोच्यते // 6 // एषा समामतस्तावत् कृता सामान्ययोजना। विशेषयोजनाव्यक्त गद्येनोदाहरिष्यते // 477 // तत्रेह तावत्तत्वविदुषामेष मार्गो यदुत तेषां कल्याणाभिनिवेशितया निष्ययोजनो विकल्पो न चेतसि विवर्त्तते। अथ कदाचिदभावितावस्थायां विवर्त्तत तथापि ते न निर्णिमित्तं भाषन्ते / प्रथ कदाचिदतत्वज्ञजनान्तर्गततया भाषेरन् तथापि न निईतकं चेष्टन्ने यदि पुनस्ते निष्कारणं चेष्टेरन् ततोऽतत्वज्ञजनमार्थादविशिष्टतया तत्वविद्वत्ता विशौर्यंत तस्मात्तत्ववेदिप्वात्मनोन्तर्भावमभिवषता सकलकालं सर्वण स्वविकल्पजल्पाचरणानां मार्थकत्वं यत्नतः परिचिन्तनौयम्। त दिनां च पुरतः कीर्तनीयम् ते हि निरर्थकेश्वष्यात्मविकल्पजल्पव्यापारेषु मार्थकत्वबुद्धिं कुर्वन्तमनुकम्पया वारयेयुरिति / श्रतो मयापि वप्रवृत्तेः मार्थकत्वमावेदयते मामुपमितिभवप्रपञ्चाभिधानां कथामारधुकामेन कथानकं दृष्टान्तद्वारेण निवेदितं तदेतद्यद्यवधारितं भो भव्यास्ततो मदनुरोधेन विहाय विक्षेपान्तरमस्थ दान्तिकमर्थमाकर्णयत / तत्र यत्तावददृष्टमूलपर्यन्तं नाम नगरमनेकजनाकुलं सदास्थायुकमाख्यातं मोऽयमनादिनिधनोऽविच्छिन्नरूपोऽनन्तजन्तु व्रातपूरितः संसारो द्रष्टव्यः / तथाहि / युज्यतेऽस्य नगरस्य नगरता कल्पयितुं यतोऽत्र धवलग्टहायन्ते देवलोकादिस्थानानि / हट्टमार्गायन्ते परापरजन्मपद्धतयः / For Private And Personal Use Only