________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / किं चेह बहुनोतन यावन्तः पुरुषे गुणाः / गौयन्ते तेऽखिलास्तत्र प्रादुर्भता विचक्षणे // अथ संवर्धमानोऽसौ शरीरेण प्रतिक्षणम / जडस्तु यादृक् संपन्नस्तदिदानौं निबोधत // विपर्यस्तमनाः सत्यशौचमन्तोषवर्जितः / मायावी पिशुनः लोबो निन्दकः माधुसंहतेः // असत्यसन्धः पापात्मा गुरुदेवविडम्बकः / अमत्प्रलापो लोभान्धः परेषां चित्तभेदकः // अन्यच्चित्ते वदत्यन्यच्चेष्टते क्रिययापरम् // दह्यते परमम्पत्सु परापत्म प्रमोदते // गर्वाभातः सदा क्रुद्धः सर्वेषां भषणप्रियः / आत्मश्लाघापरो नित्यं रागद्वेषवशानुगः // किं वात्र बहुनोनेन ये ये दोषाः सुदुर्जने / गौयन्ते तेऽखिलास्तत्र प्रादुर्भुतास्ततो जडे // एवं च वर्धमानौ तौ स्वगेहे सुखलालितौ / विचक्षणजडौ प्राप्तौ यौवनं परिपाटितः // इतश्च गुणरत्नानामुत्पत्तिस्थानमुत्तमम् / पुरं निर्मलचित्ताकं विद्यते लोकविश्रुतम् // तत्रान्तरङ्गे नगरे नृपो नाम्ना मलक्षयः / अस्ति सद्गुणरत्नानां जनकः पालकश्च सः // तस्य सुन्दरता नाम महादेवी मनःप्रिया / विद्यते चारसर्वाङ्गी मा तद्रत्नविवर्धिका // For Private And Personal Use Only