________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 476 खभर्तुर्वत्सला माध्वौ सुन्दराङ्गौ जनप्रिया / भार्या शुभोदयस्यास्ति पद्माची निजचास्ता // तथाशुभोदयस्यापि जनमन्तापकारिणौ / भार्या स्खयोग्यता नाम विद्यतेऽत्यन्तदारुणा // इतश्च कालपर्यायादवाप्य निजचास्ताम् / ततः शुभोदयाज्जातः पुत्रो नाम विचक्षण: // तथैव कालपर्यायादवाप्यैव स्वयोग्यताम् / ततोऽशुभोदयाज्जातो जडो नाम सुताधमः // तयो विचक्षणस्तावदर्धमानः प्रतिक्षणम् / यादृशः स्वैर्गुणैर्जातस्तदिदानौं निबोधत // मार्गानुमारिविज्ञानः पूजको गुरुमंहतेः / मेधावी प्रगुणो दक्षो लब्धलक्ष्यो जितेन्द्रियः // सदाचारपरो धौरः सद्भोगौ दृढसौहदः / देवाभिपूजको दाता ज्ञाता स्वपरचेतसाम् // सत्यवादी विनौतात्मा प्रणयागतवत्सलः / क्षमाप्रधानो मध्यस्थः मत्त्वानां कल्पपादपः // धमैकनिष्ठः शुद्धात्मा व्यमनेऽप्यविषमधीः / स्थानमानान्तराभिज्ञः कुत्सिताग्रहवर्जितः / / ममस्तशास्त्रतत्त्वज्ञो वाचि पाटवसंगतः / नौतिमार्गप्रवीणत्वात् त्रामकः शत्रुसंहतेः // खगुणोत्सेकहीनात्मा विमुक्तः परनिन्दया / अद्दष्टः सम्पदा लाभे पराथें च विनिर्मितः // For Private And Personal Use Only