________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 478 उपमितिभवप्रपञ्च। कथा / ततस्ते कथयाम्येष भवनिर्वेदकारणम् // किंतु अात्मस्तुतिः परे निन्दा पूर्वकौडितकौर्तनम् / विरुद्धमेतद्राजेन्द्र माधूनां त्रयमप्यलम् // ममात्मचरिते चैतत्कथ्यमाने परिस्फुटम् / वयं संपद्यते तेन न युक्त नस्य कीर्तनम् // तातेनाभिहितम् / एवं निगदता नाथ वर्धितं कौतुकं त्वया / कर्तव्योऽतः प्रमादो मे निवेद्यं चरितं निजम् // ततो विज्ञाय निर्बन्धं मध्यस्थेनान्तरात्मना / प्रबोधकारणं ज्ञावा सूरिरित्यमवोचत / यदुत अनादिनिधनं लोके नानावृत्तान्तमङ्गुलम् / विद्यते भूतलं नाम नगरं सुमनोहरम् // नत्रास्ति भुवनख्यातो देवानामपि नायकः / अलंध्यसत्प्रतापाज्ञो नरेन्द्रो मलसञ्चयः // सुन्दरासुन्दरे कार्ये नित्यं विन्यस्तमानमा / तस्य चास्ति महादेवौ तत्पकिर्नाम विश्रुता // तयोश्च देवौनृपयोरेकः सुन्दरचेष्टितः / विद्यते जगदाल्हादौ पुत्रो नाम शुभोदयः // तथा द्वितीयस्तनयस्तयोर्दैवीनरेन्द्रयोः / अस्ति सर्वजनोत्तापौ विख्यातश्चाशुभोदयः // For Private And Personal Use Only