________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 481 ताभ्यां च कालपर्यायाज्जाता पद्मदलेक्षणा / बुद्धिर्नाम गुणैराड्या कन्यका कुलवर्धनौ / ततः मा गुणरूपाभ्यामनुरूपं विचक्षणम् / विचिन्त्य प्रहिता बाला ताभ्यां तस्य स्वयंवरा // परिणीता च मा तेन महाभूतिप्रमोदतः / विचक्षणेन मत्कन्या जाता च मनसः प्रिया // तया युक्तम्य तस्योच्चैर्मुञानस्य मनःसुखम् / विचक्षणस्य गच्छन्ति दिनानि शुभकर्मणा // अथान्यदा क्वचिडुवेर्वान्वेिषणकाम्यया / मलक्षयेण प्रहितो विमर्शो निजपुत्रकः // स च बुद्धौ दृढस्नेहभावभावितमानमः / तस्या एव समीपस्थः मद्भगिन्याः स्थितो मुदा // महोदरसमायुक्ता भर्चा च बहुमानिता / ततः मा चित्तनिर्वाणादर्भ ग्रहाति बालिका // अथ तस्याः शुभे काले सगर्भपरिपाकतः / जातो देदीप्यमानाङ्गः प्रकर्षा नाम दारकः // जातः संवर्धमानोऽसौ प्रकर्षा बुद्धिनन्दनः / विचक्षणगुणैस्तुल्यो विमर्शस्थातिवल्लभः // [अथान्यदा खकं दृष्टं काननं सुमनोहरम् / विचक्षणजडाभ्यां भो नाम्ना वदनकोटरम् // . तत्र खादनपानेन ललमानौ यथेच्छया / नौ दावपि स्थितौ कंचित्कालं संतुष्टमानमौ // For Private And Personal Use Only