________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 473 ततस्तत्तादृशं वीक्ष्य मदीयं कर्म दारुणम् / तातः शोकभराक्रान्तस्तदैवं चिन्तयत्यलम् // अहो अनर्थपुञोऽयमहो मे कुलदूषणः / अहो सर्वजघन्योऽयमहो पापिष्ठशेखरः // अहो मर्वापदां मूलमहो लोकपथातिगः / अहो वैरिकसङ्काशो ममायं रिपुदारणः // न कार्य मे ततोऽनेन पुत्रेणापि दुरात्मना / एवं विचिन्य तातेन कृतश्चित्ते विनिश्चयः // ततोऽवधौरितस्तेन भवनाच्च बहिष्कृतः / भ्रष्टश्रीकः पुरे तत्र विचरामि सुदुःखितः // खदुष्टचेष्टितेनैव बालानामपि सर्वथा / गम्यश्चाहं तदा जातस्ततश्चैवं विगर्हितः // पापोऽयं दुष्टचेष्टोऽयमद्रष्टव्यो विमूढधीः / कुलकण्टकभूतोऽयं सर्वथा विषपुञ्जकः // मानावलेपतो येन कलाचार्योऽपकर्णितः / मूर्खचूडामणित्वेऽपि पाण्डित्यं च प्रकाशितम् // माता च प्रियभार्या च येन मानेन मारिता / को वा निरौक्षते पापं तमेनं रिपुदारणम् // उनमेवेदमस्माभिःचितास्य दुरात्मनः / मा कलाकौशलादीनां खानिर्या नरसुन्दरौ॥ ततश्च वियुक्तो नरसुन्दर्या यदयं तच्च सुन्दरम् / For Private And Personal Use Only