________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 472 उपमितिभवप्रपञ्चा कथा / ततो दूरं गतयोरावयोरनुमार्गणागच्छन्ती ममागताम्बापि तत्र शून्यग्टहे / दृया तथा लम्बमाना नरसुन्दरौ। चिन्तितमम्बया / हा हा हतास्मि / नूनं मत्पुत्रकस्यापीयं वार्ता / कथमन्यथास्यामेवं व्यवस्थितायां स हृष्णौमासीत् / मया तु गेलराजीयावलेपनदोषेणैव श्रवस्तुनिर्बन्धपरेयमिति कृता तदवधारणा / ततः शोकभरान्धया मम पश्यत एव तथैव चापादितोऽम्बयाप्यात्मा / ततः माध्वसमन्तापेनेव शुष्क मनाङ् मे स्तब्धचित्ताभिधानं तत्तदा हृदयावलेपनं / ग्टहीतोऽहं पश्चात्तापेनाक्रान्तः शोकभरेण / ततः स्वाभाविकस्नेहविहलोभूतमानसः / क्षणं विधातुमारब्धः प्रलापमतिदारुणम् // तथाप्यतिप्रौढतया निजमाहात्म्येन कृत एव मे शैलराजेन चित्तावष्टम्भः / चिन्तितं मया / श्रये मनुष्यः कथं स्त्रीविनाशे रोदितौति / ततः स्थितोऽहं तूषणोंभावेन // दूतश्च कदलिकया चिन्तितं / किमिति स्वामिनी नागच्छति। तइच्छाम्यहं तदन्वेषणार्थ / ततः कुतचिनिश्चित्य प्राप्ता सापि तं प्रदेशं / ततो दृष्ट्वा विमलमालतीनरसुन्दा तथा लम्बमाने कृतस्तया हाहारवः / मिलितं सतातं नगरं। समुच्छलितः कोलाहलः / किमेतदिति पृष्टा कदलिका। निवेदितं तया सर्वं यथावृत्तं // अत्रान्तरे संपन्नः स्फटतरश्चन्द्रालोकः / ततो दृष्टे तथैवोलम्बमाने सर्वलोकेनाम्बानरसुन्दयौँ। विलोकितोऽहमपि स्वकर्मत्रस्ततया भग्नगतिप्रसरो नष्टवाणी कस्तचैव लौनो वर्तमानश्छन्न प्रदेश / जातःसंप्रत्ययः / धिक्कारितोऽहं जनेन। कारितं तातेनाम्बानरसुन्दोर्मतक कार्यम् / For Private And Personal Use Only