________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 171 नया / भो भो लोकपालाः श्टणत ययमथवा प्रत्यक्षमेवेदं दिव्यज्ञानिनां तत्रभवतां / यदुत लब्धप्रसरतया नाथवादेन कलोपन्यामं कारितो मयार्यपुत्रो न परिभवबुद्ध्या / तस्य तु तदेव मानपर्वतारोहकारणं संपन्नं / एवं च सर्वथा निराकृताहं तेन मन्दभाग्या / अत्रान्तरे मया चिन्तितं / नास्यास्तपखिन्या ममोपरि परिभवबुद्धिः किं तर्हि प्रणयमात्रमेवात्रापराध्यति / ततो न सुन्दरमनुष्ठितं मया / अधुनापि वारयाम्येनामितोऽध्यवसायादिति विचिन्य पाशकच्छेदार्थ यावच्चलामि तावदभिहितं नरसुन्दयो / यदुत तत्प्रतौच्छत भगवन्तो लोकपालाः साम्प्रतं मदीयप्राणान् / मा च मम जन्मान्तरेवपि पुनरेवंविधव्यतिकरो भूयादिति / ततः शैलराजेनाभिहितं / कुमार पश्य जन्मान्तरेऽपि त्वदीयसम्बन्धमेषा नाभिलषति / मया चिन्तितं। सत्यमिदं / तथाहोयं प्रस्तुतव्यतिकरनिषेधमाशास्ते / मदीयव्यतिकरश्चात्र प्रस्तुतः / तन्त्रियतां / किमनया मम पापया। ततो लब्धप्रसरेण दत्तो मम हृदये गैलराजेन स्खविलेपनहस्तकः / स्थितोऽहं तस्य माहाम्येन तां प्रति काष्ठवनिष्ठितार्थः / ततः प्रवाहितो नरसुन्दर्यात्मा पूरितः पाशक: लम्बितं प्रवृत्ता निर्गते नयने निरुद्धः श्वासमार्गः वक्रीकृता ग्रौवा श्रावष्टं धमनौजालं शिथिलितान्यङ्गानि समसमाथितं श्रोतोभिः निर्वादितं वत्रकुहरं विमुक्रा च सा प्राणैर्वराकौ // इतश्च भवनानिर्गच्छन्तौ दृष्टाम्बया नरसुन्दरौ अहं च तदनुयायो / चिन्तितमनया / नूनं भग्नप्रणयेयं रुष्टा वत्मा गच्छति मे वधः / अयं पुनरस्था एव प्रसादनाथे पृष्ठतो लग्नो मम पुत्रकः / For Private And Personal Use Only