________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / न प्रतारयितुं शक्यस्त्व यायं रिपुदारणः // कुशलापि कलासूच्चैरन्येषां यदि वञ्चनम् / कर्तुं शतामि नो जातु मूर्खाणामपि मादृशाम् // यदाहं हसनस्थानं संजातस्त्वादृशामपि / तदा किं ते प्रलापेन कीदृशौ मम नाथता // इत्युक्त्वा स्तब्धसर्वाङ्गः शून्यारण्ये मुनिर्यथा / स्थितोऽहं मौनमालम्ब्य शैलराजेन चोदितः // ततः मा वराको नरसुन्दरी विगलितविद्येवाम्बरचरौ परिभ्रष्टममाधिसामर्थ्येव योगिनौ तप्तस्थलनिक्षिप्तेव शफरिका अवाप्तनष्टरत्ननिधानेव मूषिका सर्वथा त्रुटिताशापाशबन्धना निपतिता महाशोकभरमागरे चिन्तयितुं प्रवृत्ता। किमिदानौं सर्वथा प्रियतमतिरस्कृताया मम जीवितेनेति / ततो निर्गत्य भवनात् क्वचिङ्गन्तमारब्धा / ततः किमियं करोतीति विचिन्त्य सहित एव शैलराजेनालचितपादपातं लगोऽहं तदनुमार्गेण // दूतश्च लोकयन्निव निर्विलो मदीयं दुष्टचेष्टितम् / अचान्तरे गतोऽन्यत्र तदा क्षेत्रे दिवाकरः // ततः समुलमितमन्धकारं। संजाता विरलजनमञ्चारा राजमार्गाः। ततो गता सैकत्र शून्यग्टहे नरसुन्दरौ। दूतचोदन्त प्रवृत्तः प्रशधरः / ततो मन्दमन्दप्रकाशे तामेव निरीक्षमाणः प्राप्तोऽहमपि तद्दारदेश स्थितो गोपायितेनात्मना / ततो नरसुन्दर्या विलोकितं दिग्चक्रवालं दृष्टकास्थलमारुह्योत्तरौयेण बद्धो मध्यवलये पाशकः / नियमिता तत्र शिरोधरा / ततोऽभिहितम For Private And Personal Use Only