________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 469 यतः सुपरिमाणिते वल्लभके किलावरकको न भवतीति लोकवार्ता / नरसुन्दरी प्राह / यदाज्ञापयत्यम्बा / ततश्चलिता सा मम तोषणार्थं / किमस्थास्तत्र गतायाः संपद्यत इति विमर्शन लमा तदनुमानृणाम्बा / प्राप्ता मम पार्श्व नरसुन्दरौ / स्थिता द्वारदेश विमलमालती / नरसुन्दर्याभिहितं / नाथ कान्त प्रिय खामिजौवदायक वल्लभ / प्रसौद मन्दभाग्यायाः प्रसौद नतवत्सल // न पुनस्ते मनोदुःखं करिव्येऽहं कदाचन / त्वां विना शरणं नाथ नास्ति मे भुवनत्रये // एवं च वदन्ती बाघ्योदकबिन्दुवर्षणालोललोचनयुगलेन वपयन्ती मदीयचरणद्वयं प्रणता नरसुन्दरी / मम तु तां तादृशौं पश्यतस्तदा कीदृशं हृदयं संपन्नं / अपि च / स्नेहेन नरसुन्दर्या भवत्युत्पलकोमलम् / वौचिते गेलराजे तु शिलामवातनिठुरम् // नवनौतमिवाभाति यावञ्चिन्तयति प्रियाम् / वज्राकारं पुनर्भाति गैलराजवशीकृतम् // ततो दोला ममारूढं तदा मामकमानमम् / निश्चेतुं नैव शक्नोति किमत्र मम सुन्दरम् // तथापि मोहदोषेण मया दौनापि बालिका। शैलराज प्रिय कृत्वा भर्मिता नरसुन्दरौ / कथम् / श्राः पापे गच्छ गच्छति वागाडम्बरमायया / For Private And Personal Use Only