________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / किं तु मा पद्मपत्राक्षौ यन्मता तन्न सुन्दरम् // अहं पुनर्महामोहलुप्तजानः स्वचेतमा / तदापि चिन्तयाम्य वं भने विमललोचने // त्यनस्यापोह तातेन निन्दितस्यापि दर्जनैः / गेवराजमृषावादौ तथापि मम बान्धवौ // अनयोहि प्रसादेन भुकपूर्व मया फलम् / भोक्ष्ये च कालमामाद्य पुनर्नास्त्यत्र मंशयः // ततश्चैवं जनेनो निन्द्यमानः क्षणे क्षणे / स्थितोऽहं भूरिवर्षाणि दःखमागरमध्यगः // इतश्च अत्यन्तदुर्बलौभूतः मकोपो मयि निस्फुरः / स तु पुण्योदयो भद्रे स्थितोऽकिंचित्करम्तदा // अथान्यदा क्वचिद्राजा वाहनार्थ सुवाजिनाम् / वेष्टितो राजवन्देन निर्गतो नगराइहिः // ततः कुबूहलाकृष्टः मो नागरको जनः / तत्रैव निर्गतोऽहं च संप्राप्तस्तस्य मध्यगः / अथ बाल्हीककाम्बोजतुरुष्कवरवाजिनः / वाहयित्वा भृशं राजा राजलोकविलोकितः // ततः खेदविनोदार्थमुद्यानं सुमनोहरम् / प्रविष्टः मह लोकेन ललितं नाम शीतलम् // तच कीदृशम् अशोकनागपुन्नागतालहिन्तालराजितम् / For Private And Personal Use Only