________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / ततश्चेदं मदीयवचनमाकर्ण्य मा बाला नरसुन्दरौ विकसितेव कमलिनो कुसुमितेव कुन्दलता परिपाकबन्धुरेव मञ्जरौ मदसुन्दरेव करिणिका जलसेकाय्यायितेव वल्लरी पौतामृतरसेव नागप्रणयिनी गतघनबन्धनेव चन्द्रलेखिका सहचरमौलितेव चक्रवाकिका क्षिप्तेव सुखासतमागरे सर्वथा किमप्यनाख्येयं रमान्तरमनुभवन्तौ शयनादुत्थाय निपतिता गाढं मम चरणयोः / अभिहितमनया। अम्ब महाप्रसादः / अनुग्रहौतास्मि मन्दभाग्याहमनेन वचनेनाम्बया / तगच्छतु शौघ्रमम्बा करोतु ममानुकूलमेकवारमार्यपुत्रं / ततो यदि पुनरयं जनस्तस्य प्रतिकूले वर्तमानः स्वप्रेऽपि विज्ञातः स्यादम्बया ततो यावन्नौवं न संभाषणोयो नापि द्रष्टव्यः पापात्मेति / मयाभिहितं / यद्येवं ततो गच्छामि / नरसुन्दरी प्राह / श्रम्ब महाप्रसादः। ततः समागताहमेषा वत्मस्य समीपे / तदयमत्र वत्म परमार्थः / मा तु दन्दह्यते बाला विदित्वा प्रतिकूलताम् / तवानुकूलतां मत्वा प्रमोदमवगाहते // वल्लभेयं कुमारस्य श्रुत्वेदममृतायते / अनिष्टेयं कुमारस्थ श्रुत्वेदं नारकायते // त्वदौयरोषनाबापि नियते मा तपस्विनी / सन्तोषमात्रनाम्नापि तावकोनेन जीवति // अतो यन्मुग्धया किंचिदपराद्धं तया तव / बालया प्रणयात्मवै तवत्सः चन्तुमर्हति // प्रणतेषु दयावन्तो दौनाभ्युद्धरणे रताः / For Private And Personal Use Only