________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / परुषवचनेस्तथा तिरस्कृता / तथाहि यदितो गतायास्तस्याः संपचं तत्ममाकर्णयतु वत्मः / मयाभिहितं / उच्यतां यत्ते रोचते / अम्बयाभिहितं / अस्ति तावदितो गता नयनसलिलधाराधौतगण्डलेखा दौनमनस्का दृष्टा मा मया नरसुन्दरी। पतिता रुदन्तौ मम पादयोः। मयाभिहिता / हले नरसुन्दरि किमेतत् / तयाभिहितं / अम्ब दाहचरो मां बाधते / ततो नौता मया मा संप्रवातदेशे। सन्नौकारितं शयनीयं। तत्र च स्थापिता मा / निषलाहं पार्श्व / ततः प्रहते व महामुहरेण प्लष्यमाणेव तौवाग्निना खाद्यमानेव वनपञ्चाननेन ग्रस्यमानेव महामकरण अवष्टभ्यमानेव महापर्वतेन उत्कर्त्यमानेव कृतान्तकर्तिकया पाव्यमानेव क्रकचपाटेन पच्यमानेव नरके प्रतिक्षणमुदर्तपरावर्त कर्तमारब्धा / मयाभिहितं / हले किंनिमित्तकः पुनस्तवायमेवंविधो दाहज्वरः / ततो दीर्घदौर्घ निःश्वस्य न किंचिजल्पितमनया। मया चिन्तितं / मानसौयमस्या: पौडा / कथमन्यथा ममापि न कथयेत् / ततः कृतो मया निर्बन्धः / कथितं कृच्छ्रेण नरसुन्दर्या यथावृत्तं / ततो नियुज्य तस्याः शौतक्रियाकरणे कदलिकां मयाभिहिता मा नरसुन्दरौ। यदुत वत्से यद्येवं ततो धौरा भव मुच्च विषादं अवलम्बस्व माहमं / गच्छाम्यहं खयमेव वत्मस्य रिपुदारणस्य समोपे। करोमि तं तवानुकूलम् / केवलं किं न विज्ञातं पूर्वमेव त्वयेदं यथा नितरां मानधनेश्वरो मदीयस्तनयः न विषयः प्रतिकूलमाषणस्य / तदिदानौमपि विज्ञातमाहात्म्ययास्थ त्वया न कदाचिदपि प्रतिकूलमाचरणौयं यावज्जौवं परमात्मेवायमाराधनीयः / For Private And Personal Use Only