________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 464 उपमितिभवप्रपञ्चा कथा। मनःक्षोभकारणमार्यपुत्र' प्रश्नयामि। ततो यदि स्फुटमाचक्षीत विज्ञास्यामि यथास्ति मया सहास्य स्नेहमभावः / अथ न कथयत्ततस्तत्राप्यभिप्रायं लक्षथिव्यामौ ति विचिन्त्य पृष्टोऽहं नरसुन्दा / यदुतार्यपुत्र कीदृशं तव तदा सभामध्ये शरीरापाटवमासौदिति / अत्रान्तरे ज्ञातावसरेण प्रयुक्ता मृषावादनात्मौया योगशतिः / कृतमन्तर्धानं / प्रविष्टो मदीयमुखे / ततोऽभिहितं मया / प्रियतमे वया पुनस्तदा कीदृशं लक्षितं / नरसुन्दरी प्राह / न मया किंचित्तदा सम्यग विज्ञातं / केवलं समुत्पन्ना शङ्का किं सत्यमेव शरीरापाटवमार्यपुत्रस्य किं वा कलाकलापे न कौशलमिति / मयाभिहितं / सुन्दरि न तत्रैकोऽपि विकल्पः कर्तव्यः / यतस्तरन्ति हृदये मम सकलाः कलाः / शरीरापाटवपि मम न किंचित्तदासीत् / केवलमम्बया तातेन चालीकमोहात् कृतो मुधैव बहलः कलकलः / तथाविधालौककलकले च स्थिरतया स्थितोऽहं मौनेन। एतच्चाकर्ण्य नरसुन्दर्याः संजातो मनसि व्यलोकभावः / चिन्तितमनया / अहो अस्य प्रत्यचापलापित्वं अहो निर्लज्जता अहो आत्मबहुमानिता। ततोऽभिहितं नरसुन्दर्या / आर्यपुत्र यद्येवं ततो महत्कुतुहलं मम इदानीमप्यहमार्यपुत्रण कलाखरूपमुत्कोत्यमानं श्रोतुमिच्छामि। अतो महता प्रसादेन समुत्कोर्तयत तदार्यपुत्रः / मया चिन्तितं / अये पाण्डित्याभिमानेन परिभवबुद्ध्या मामुपहसत्येषा / अत्रान्तेर लब्धावमरो विजृम्भितः शैलराजः / विलिप्तं तेन स्तब्धचित्ताभिधानेनात्मौयविलेपनेन स्वहस्तेन मद्धदयं / ततश्चिन्तितं मया। एवं या मम परिभवेनोपहामकारिणी For Private And Personal Use Only