________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपच्चा कथा / ऽग्टहौतमकेते समाश्वासनार्थं तातस्य दत्तं कामरूपितया स्वप्नान्तरे तेन पुण्योदयेन दर्शनं / दृष्टः सुन्दराकारो धवलवर्णः पुरुषः / अभिहितमनेन / महाराज किं स्वपिषि किं वा जागर्षि। तातेनाभिहितं / जागर्मि / पुरुषः प्राह / यद्येवं मुञ्च ततो विषादं। दापयिष्याम्यहं रिपुदारणकुमाराय नरसुन्दरीमिति। तातेनाभिहितं / महाप्रसादः // अत्रान्तरे प्रहतं प्राभातिकं व्यं / ततो विबुद्धस्तातः / पठितं कालनिवेदकेन / होनप्रतापो यः पूर्वं गतोऽस्तं जगतां पुरः / स एवोदयमामाद्य रविराख्याति हे जनाः // यदा येनेह यल्लभ्यं शुभं वा यदि वाशुभम् / तदावाप्नोति तत्सर्वं तत्र तोषेतरौ वृथा // एतच्चाकर्ण्य चिन्तितं तातेन। यदुत न कर्तव्यो मयाधुना विषादः। यतो लम्भयिष्यामि कुमारं नरसुन्दरौमिति / स्फुटमेव निवेदितं स्वप्ने मम देवेन / अनेन तु कालनिवेदकपाठव्याजेन दत्तो ममोपदेशो वेधमा / यदुत यः पुरुषो यावतः सुन्दरस्यासुन्दरस्थ वा वस्तुनो यदा भाजनं तस्य तावत्तदतर्कितमेव तदा मदशेन संपद्यत इति / न कर्तव्यौ तत्र विदुषा हर्षविषादौ। ततोऽनया भावनया स्वस्थीभूतस्तातः // दूतश्चाविन्यप्रभावतया पुण्योदयस्य संपादिता तेन नरकेसरिणो बुद्धिः। यदुत महानुभावोऽयं नरवाहनराजः / विज्ञातं च राज्यान्तरेष्वपि मम यदिहागमनप्रयोजनं। ततो For Private And Personal Use Only