SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / लनाकरं पक्षद्वयस्यापि नरसुन्दरीमदत्त्वा मम स्वस्थाने गमनं / अतः संभाल्य कथंचिदेनां प्रयच्छामि रिपुदारणकुमारायेति // ततो निवेदितो नरकेसरिणा वसुंधरासमक्षं नरसुन्दथै स्वाभिप्रायः / ततो नरसुन्दर्या अपि पुण्योदयप्रभावादेव वलितं मां प्रति मानसं / चिन्तितमनया। युक्तियुक्तमेव तातेन मन्त्रितं / ततोऽभिहितमनया। यदाज्ञापयति तातः। तदाकर्ण्य हृष्टो नरकेसरौ। आगत्याभिहितोऽनेन नरवाहनः / महाराज किमत्र बहुना जल्पितेन / आगतैवेयं वत्मा नरसुन्दरौ कुमारस्य स्वयंवरा। तदत्र किं बहुना विकत्यनेन / केवलं दुर्जनवचनावकाशो भवति। अतो निर्विचारं ग्राह्यतां कुमारेण स्वपाणिना पाणिरस्थाः / तातेनाभिहितं / / एवं क्रियते / गणितं प्रशस्तदिनं / परिणीता मया महता विमर्दन नरसुन्दरौ। तां विमुच्य गतः खस्थाने नरकेमरौ / दत्तो मह्यं तातेन निर्व्यग्रभोगार्थ महापामादः। गतानि नरसुन्दर्या मह ललमानस्य मे कतिचिद्दिनानि / घटितं च पुण्योदयेन निरन्तरमावयोः प्रेम समुत्पादितश्चित्तविश्रम्भः लगिता मैत्री जनितो मनोरतिप्रबन्धः प्ररोहितः प्रणयः वर्धितश्चित्तमौलकाल्हादसागरः / सर्वथा स्वप्रभामिव तौक्षणांशश्चन्द्रिकामिव चन्द्रमाः / क्षणमेकं न मुञ्चामि तामुमामिव शङ्करः // मापि मामकवत्राबरसास्वादनतत्परा / भ्रमरोव गतं कालं न जानाति तपखिनौ // ततस्तं तादृशं वौच्य देवानामपि दुर्लभम् / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy