________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / तातेनाभिहितं। गच्छत भो लोका गच्छत न पटुः शरौरेणाद्य कुमारः। पुनर्जल्पो भविष्यति। तदाकर्ण्य निर्गता वेगेन लोका मिलिता बहिस्त्रिकचतुष्कचत्वारादिषु। अहो रिपुदारणस्य पाण्डित्यमहो पाण्डित्यमिति प्रवृत्तं प्रहसनं / प्रहितौ लज्जावनमेण तातेन कलोपाध्यायनर केसरिणौ। गतः स्वावासस्थाने नरकेसरी। चिन्तितमनेन। दृष्टं यद्रष्टव्यं / दीयतां प्रभाते प्रयाणकमिति // ममापि निर्जनीभूते मन्दीभृतं भयं स्वस्थौभूतं शरीरं। तातस्य तु हतराज्यस्येव वजाहतस्येव महाचिन्ताभराक्रान्तस्य लवितं तद्दिनं / समागता रजनी / न दत्तं प्रादोषिकमास्थानं / निवार्य जनप्रवेशं प्रसुप्तः / केवलं तया चिन्तयापनिद्रेणेवातिवाहितप्राया विभावरौ // इतश्च लज्जितो मे वयस्यः पुण्योदयः / चिन्तितमनेन / यस्य जीवत एवं पुंसः स्वामौ विडम्व्यते / किं तस्य जन्मनाप्यत्र जननौलेशकारिणः // ततश्च / जातं विच्छायकं तावन्ममैतदतिदुःसहम् / यायात्मुतामदत्त्वेव यद्यमौ नरकेसरी // ततोऽस्य सर्वथा व्यर्थ कुमारस्य मदीयकम् / मंनिधानमतो नैव ममोपेक्षात्र युज्यते // ततो यद्यप्ययोग्योऽयमेतस्या रिपुदारणः / तथापि दापयाम्येनामस्मै कमललोचनाम् // अत्रान्तरे समागता तातस्य रात्रिशेषे निद्रा। ततो भने For Private And Personal Use Only