SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा / करणीय इति। तदाकर्ण्य हृष्टौ नरवाहननरेन्द्रौ समस्तराजकुलं लोकाश्च / ततस्तातेनाभिहितोऽहं। कुमार सुन्दर मन्त्रितं राजदुहित्रा। तत्साम्प्रतमुद्राहयतु कुमारः मकलाः कलाः पूरयत्वस्या मनोरथान् जनयत् ममानन्दं निर्मलयत कुलं ग्टह्णातु जयपताकां। एषा मा निकषभूमिवर्तते विज्ञानप्रकर्षस्थेति // मम तु तदा कलानां नामान्यपि विस्मृतानि। ततो विहलोभूतमन्तःकरणं प्रकम्पिता गात्रयष्टिः प्रादुर्भूताः प्रखेद बिन्दवः संजातो रोमोद्धर्षः प्रनष्टा भारतौ तरलिते लोचने। ततो हा किमेतदिति विषमस्तातः / प्रलोकितं महामतिवदनं। महामतिराह / किं कर्तव्यमादिशतु देवः / तातेनाभिहितं / किमितीयमौदृशौ कुमारशरोरेऽवस्था। ततः कर्णे निवेदितं महामतिना। देव मनःक्षोभविकारोऽयमस्य / तातः प्राह। किं पुनरस्य मनःक्षोभनिमित्तं / महामतिराह / देव प्रस्तुतवस्तुन्यज्ञानं / भवत्येव हि वागायुधानां सदसि विदुषां सस्पर्धमाभाषितानां ज्ञानावष्टम्भविकलानां मनसि क्षोभातिरेकः / तातेनाभिहितं। आर्य कथमज्ञानं कुमारस्य / ननु सकलकलासु प्रकर्ष प्राप्तः कुमारो वर्तते / ततः संस्मृत्य मदीयदुर्विलसितं ग्रहोतो मनाकोधेन कलाचार्यः / ततोऽभिहितमनेन / देव प्रकर्ष प्राप्तः कुमारः शैलराजमषावादप्रणौतयोः कलयोन पुनरन्यत्र / तातः प्राह / के पुनस्ते कले / महामतिराह। दुर्विनयकरणमसत्यभाषणं च / एते ते शैलराज - मृषावादप्रणौते कले। अनयोश्चात्यन्तं कुशलः कुमारः। न पुनरन्यकलानां गन्धमात्रमपि जानौते / तातः प्राह / कथमिदं / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy