________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 457 महामतिनाभिहितं / देव देवस्य दौर्घचित्तसन्तापभौरुभिस्तदैव नाख्यातमिदमस्माभिः। यतो लोकमार्गातीतं कुमारस्य चरितमिदानीमपि देवस्य पुरतस्तत्कथयतो न प्रवर्तते मे वाणौ / तातेनाभिहितं। यथावृत्तकथने भवतो नास्त्यपराधः। निःशङ्क कथयत्वार्यः। कलाचार्यणावज्ञाकरणदिको वेवासनारोहणगी दुर्वचनतिरस्करणपर्यन्तो निवेदितः समस्तोऽपि मदौयदुर्विलसितवृत्तान्तः / तातेनाभिहितं / आर्य यद्येवं ततो जानतापि त्वयास्य कुलदूषणस्य स्वरूपं किमित्ययमेवंविधसभामध्ये प्रवेशितः। ननु विगोपिता वयमाकालमनेन पापेन। महामतिराह। देव न मयायमिह प्रवेशितः। मझवनान्निर्गतस्यास्य दादश वर्षाणि वर्तन्ते। केवलमकाण्ड एव संजातमद्य मम देवकीयमाकारणं / ततः समागतोऽहं / अयं तु कुतश्चिदन्यतः स्थानादिहागत इति / तातेनाभिहितं। आर्य यद्येवमपात्रचूडामणिरेष रिपुदारणो गुणानामभाजनतया वर्जितो युभाभिः तत्किमिति गर्भाधानादारभ्यास्येयन्तं कालं यावत्कल्याणपरंपरा संपन्ना किमिदानौमेवं लोकमध्ये विगुप्यत इति / महामतिराह / देव अस्त्यस्य पुण्योदयो नामान्तरङ्गो वयस्यः। तज्जनिता प्राकनी कल्याणपरंपरा / तथाहि। तत्प्रभावादेवायं प्रादुर्भूतः सुकुले संपन्नो जननौजनकयोरभौष्टतमः संजातो रूपसौभाग्यसुखैश्वर्यादिभाजनं। तातः प्राह। तर्हि व पुनरधुना गतोऽसौ पुण्योदयः / महामतिराह / न कुत्रचिङ्गतोऽचैव प्रच्छन्नरूप प्रास्ते। केवलं पश्यन्त्रस्यैव रिपुदारणस्य सम्बन्धौनि दुर्विल मितानि चित्तदुःखासिकया साम्प्रतं 58 For Private And Personal Use Only