________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir પૂ છે उपमितिभवप्रपञ्चा कथा। तरः स एव यदि परं मां परिणयति नापरः। निवेदितं पित्रोनिजाकृतं। संजातमनयोः पर्याकुलत्वं नास्त्येवास्याः कलाभिः समानोऽपि भुवने पुरुषः कुतः पुनरधिकतर इति भावनया / ततः श्रुतस्ताभ्यां मदीयः कलाकौशलप्रवादः। चिन्तितं नरकेसरिणा। स एव रिपुदारणो यदि परमस्याः ममर्गलतरो भविष्यति। युज्यते च नरवाहनेन महास्माकं वैवाह्यं। थतः प्रधानवंशो महानुभावश्चासौ वर्तते तस्य च राज्ञो रत्नसूचिरिव महानागस्य निरपत्यस्य मैवैका नरसुन्दरी दुहिता। ततोऽत्यन्तमभीष्टतया तस्याश्चिन्तितमनेन। गच्छामि तत्रैव सिद्धार्थपुरे ग्टहीत्वा वत्मां नरसुन्दरौं। ततः परीक्ष्य तं रिपुदारणं विवाहयाम्येनां येन मे चित्तनिर्वृतिः संपद्यते / ततः सर्वबलेन समागतो नरकेसरी / ज्ञापितस्तातस्यागमनवृत्तान्तः। परितुष्टोऽसौ। कारितमुच्छ्रितपताकं नगरं। प्रवेशितो महाविमर्दन नरकेमरी तातेन / दत्तमावासस्थानं। भविष्यति रिपुदारणकुमारस्य नरसुन्दर्या मह कलाकौशलपरीक्षेति ज्ञापितं लोकानां / प्रशस्तदिने मन्नौकारितः स्वयंवरमण्डपः / विरचिता मञ्चाः। मौलितं राजवृन्दं / समुपविष्टस्तन्मध्ये मपरिकरस्तातः / ममाहतोऽहं कलाचार्यश्च / प्राप्तोऽहं सह मित्रत्रयेण तातसमीपं महामतिश्च सह राजदारकैः / / इतश्च पुण्योदयस्थ मदीयदृष्टचेष्टितानि पश्यतश्चित्तखेदेनैव संजातं कशतरं शरीरं विगलितं परिस्फुरणं मन्दीभूतः प्रतापः / ततोऽहमुपविष्टस्ताताभ्यणे कलोपाध्यायश्च / निवेदितं विनयनमेण नरवाहनेन महामतये नरकेसरिराजागमनप्रयोजनं। तदाकर्ण्य For Private And Personal Use Only